|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.82. अध्यायः 082
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
उलूप्यार्जुनंप्रति चित्राङ्गदादीनां समराङ्गणागमने कारणाभिधानम्॥ 1 ॥ तथा बभ्रुवाहनेन तस्य पराजये विस्तरेण हेतुकथनम्॥ 2 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
अर्जुन उवाच।
किमागमनकृत्यं ते कौरव्यकुलनन्दिनि।
मणलूरपतेर्मातुस्तथैव च रणाजिरे॥ 14-82-1(94787)
कच्चित्कुशलकामासि राज्ञोऽस्य भुजगात्मजे।
मम वा चपलापाङ्गि कच्चित्वं शुभमिच्छसि॥ 14-82-2(94788)
कच्चित्ते पृथुलश्रोणि नाप्रियं प्रियदर्शने।
अकार्षमहमज्ञानादयं वा बभ्रुवाहनः॥ 14-82-3(94789)
कच्चिन्नु राजपूत्री ते सपत्नी चैत्रवाहनी।
चित्राङ्गदा वरारोहा नापराध्यति किञ्चन॥ 14-82-4(94790)
तमुवाचोरगपतेर्दुहिता प्रहसन्त्यथ।
न मे त्वमपराद्धोसि न हि मे बभ्रुवाहनः।
न जनित्री तथाऽस्येयं मम यो प्रेष्यवत्थिता॥ 14-82-5(94791)
श्रूयतां यद्यथा चेदं मया सर्वं विचेष्टितम्।
न मे कोपस्त्वया कार्यः शिरसा त्वां प्रसादये॥ 14-82-6(94792)
त्वत्प्रियार्थं हि कौरव्य कृतमेतन्मया विभो।
यत्तच्छृणु महाबाहो निखिलेन धनंजय॥ 14-82-7(94793)
महाभारतयुद्धे यत्त्वया शान्तनवो नृपः।
अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता॥ 14-82-8(94794)
न हि भीष्मस्त्वया वीर युद्ध्यमानो हि पातितः।
शिखण्डिना तु संयुक्तस्तमाश्रित्य हतस्त्वया॥ 14-82-9(94795)
तस्य शान्तिमकृत्वा त्वं त्यजेथा यदि जीवितम्।
कर्मणा तेन पापेन पतेथा निरये ध्रुवम्।
एषा तु विहिता शान्तिः पुत्राद्यां प्राप्तवानसि॥ 14-82-10(94796)
वसुभिर्वसुधापाल गङ्गया च महामते।
पुरा हि श्रुतमेतत्ते वसुभिः कथितं मया॥ 14-82-11(94797)
गङ्गायास्तीरमाश्रित्य हते शान्तनवे नृप।
आप्लुत्य देवा वसवः समेत्य च महानदीम्।
इदमूचुर्वचो घोरं भागीरथ्या मते तदा॥ 14-82-12(94798)
एष शान्तनवो भीष्मो निहतः सव्यसाचिना।
अयुद्ध्यमानः सङ्ग्रामे संसक्तोऽन्येन भामिनि॥ 14-82-13(94799)
तदनेनानुषङ्गेण वयमद्य धनञ्जयम्।
शापेन योजयामेति तथाऽस्त्विति च साऽब्रवीत्॥ 14-82-14(94800)
तदहं पितुरावेद्य प्रविश्य व्यथितेन्द्रिया।
अभवं स च तच्छ्रुत्वा विषादमगमत्परम्॥ 14-82-15(94801)
पिता तु मे वसून्गत्वा त्वदर्थे समयाचत।
पुनः पुनः प्रसाद्यैतांस्त एनमिदमब्रुवन्॥ 14-82-16(94802)
पुत्रस्तस्य महाभाग मणलूरेश्वरो युवा।
स एनं रणमध्यस्थः शरैः पातयिता भुवि॥ 14-82-17(94803)
एवं कृते स नागेन्द्र मुक्तशापो भविष्यति।
गच्छेति वसुभिश्चोक्तो मम चेदं शशंस सः॥ 14-82-18(94804)
तच्छ्रुत्वा त्वं मया तस्माच्छापादसि विमोक्षितः।
न हि त्वां देवराजोऽपि समरेषु पराजयेत्॥ 14-82-19(94805)
आत्मा पुत्रः स्मृतस्तस्मात्तेनेहासि पराजितः।
न हि दोषो मम मतः कथं वा मन्यसे विभो॥ 14-82-20(94806)
इत्येवमुक्तो विजयः प्रसन्नात्माऽब्रवीदिदम्।
सर्वं मे सुप्रियं देवि यदेतत्कृतवत्यसि॥ 14-82-21(94807)
इत्युक्त्वा सोऽब्रवीत्पुत्रं मणलूरपतिं जयः।
चित्राङ्गदायाः शृण्वन्त्याः कौरव्यदुहितुस्तदा॥ 14-82-22(94808)
युधिष्ठिरस्याश्वमेधः परिचैत्रीं भविष्यति।
तत्रागच्छेः सहामात्यो मातृभ्यां सहितो नृप॥ 14-82-23(94809)
इत्येवमुक्तः पार्थेन स राजा बभ्रुवाहनः।
उवाच पितरं धीमानिदमस्राविलेक्षणः॥ 14-82-24(94810)
उपयास्यामि धर्मज्ञ भवतः सासनादहम्।
अश्वमेधे महायज्ञे द्विजातिपरिवेषकः॥ 14-82-25(94811)
मम त्वनुग्रहार्थाय प्रविशस्व पुरं स्वकम्।
भार्याभ्यां सह धर्मज्ञ माभूत्तेऽत्र विचारणा॥ 14-82-26(94812)
उषित्वेह निशामेकां सुखं स्वभवने प्रभो।
पुनरश्वानुगमनं कर्तासि जयतांवर॥ 14-82-27(94813)
इत्युक्ताः स तु प्रत्रेण तदा वानरकेतनः।
स्मयन्प्रोवाच कौन्तेयस्तदा चित्राङ्गदासुतम्॥ 14-82-28(94814)
विदितं ते महाबाहो यथा दीक्षां चराम्यहम्।
न स तावत्प्रवेक्ष्यामि पुरं ते पृथुलोचन॥ 14-82-29(94815)
यथाकामं व्रजत्येष यज्ञियाश्वो नरर्षभ।
स्वस्ति तेऽस्तु गमिष्यामि न स्थानं विद्यते मम॥ 14-82-30(94816)
वैशम्पायन उवाच। 14-82-31x(7922)
स तत्र विधिवत्तेन पूजितः पाकशासनिः। 14-82-31(94817)
भार्याभ्यामभ्यनुज्ञातः प्रायाद्भरतसत्तमः॥ ॥ 14-82-32(94818)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्व्यशीतितमोऽध्यायः॥ 82 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|